________________
योग
शास्त्रम् ॥२७॥
अन्येऽपि बहुभेदाश्चारणा भवन्ति । तद्यथा आकाशगामिनः पर्य्यङ्कावस्थानिषण्णा : कायोत्सर्गशरीरा वा पादोत्क्षेप निक्षेपक्रमाद्विना व्योमचारिणः । केचित जलजङ्घाफलपुष्पपत्रश्रेण्यग्निशिखाधूम नीहारावश्याय मेघवारिधारामर्कटक तन्तुज्योतीरश्मिपवनाद्यालम्बनगलिपरिणामकुशलाः । जलमुपेत्य बापी निम्नगासमुद्रादिष्वष्कायिक जीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः । भ्रुव उपरि चतुरङ्गुलप्रमिते आकाशे जङ्घा निक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः । नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविरोधेन फलतले पादोत्क्षेप निक्षेपकुशलाः फलचारणाः नानाद्रुमलतागुल्मपुष्पान्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बन सङ्गगतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लता विताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्त चरणोत्क्षेप निक्षेपपटवः पत्रचारणाः । चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य चाद्रेष्टङ्कच्छिन्नां श्रेणिमु पादायोपय्येधो वा पादपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः । अग्निशिखामुपादाय तेजः कायिकानविराध यन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । धूमवर्त्ति तिरवीनामूर्द्धगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः । नीहारमवष्टभ्याष्कायिकपीडामजनयन्तो गतिमसङ्गामनुवाना नीहारचारणाः । अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः । नभोवर्त्मनि प्रविततजलधरपटलपटास्तरणे जीवानुपघातिचक्रमणप्रभवो मेघचारणाः । प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः । कुब्जवृक्षान्तरालभाविनभः प्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनपादोद्धरणनिक्षोपावदाता मर्कटकतन्तू नच्छिन्दन्तो यान्तो मर्कटकतन्तुचारणाः । चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन
EXCOHOOMFORT
प्रथमः
प्रकाशः
॥२७॥