________________
योगशास्त्रम् ।
७१३||
A FO
EXESER
विद्यया दर्पणाङ्गुष्ठकुड्या सिष्ववतारिता । विधिना देवता पृष्टो ब्रूते कालस्य निर्णयम् ॥ १७३ ॥ सूर्येन्दुग्रहणे विद्यों नरवीरठवेत्यसौ । साध्या दशसहस्रयाष्टोत्तरया जपकर्मतः ॥ १७४॥ अष्टोत्तरसहस्रस्य जापात् कार्यक्षणे पुनः । देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् । १७५ सत्साधकगुणाकृष्टा स्वयमेवाथ देवता | त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६॥
स्पष्टाः ॥ १७३ - १७६ ।। अथ शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाह-
अथवा शकुनाद्विन्द्यात्सज्जो वा यदिवाऽऽतुरः । स्वतो वा परतो वाऽपि गृहे वा यदि वा बहिः । १७७ बहिवृश्चिक म्यानुगृहगोघापिपीलिकाः । यूकामत्कुणलूताश्च वल्मीको थोपदेहिकाः ॥१७८॥ कीटका घृतवर्णाश्च भ्रमर्यश्च यदाऽधिकाः । उद्वेगकलहव्याधिमरणानि तदा दिशेत् ॥ १७९ उपानद्वहिनच्छत्रशस्त्रच्छोयाङ्गकुन्तलान् । चञ्च्वा चुम्बेद्यदा काकस्तदा सन्नैव पञ्चता ॥ १८० ॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद्रोगो मृत्युश्च तत्प्रभोः॥ १८१ ॥ स्पष्टाः ॥ १७७ - १८१ ॥ प्रकारान्तरेण स्तौति-
अनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥
&B
पश्चमप्रकाशः।
॥७१३॥