________________
योगशास्त्रम्
पश्चम
प्रकाशः।
७१४॥
स्पष्टः ॥ १८२ ॥ आतुरशकुनेषु श्वगतशकुनानि त्रिभिः श्लोकैराह-- दक्षिणस्यां वलित्वा चेत् श्वा गुदं लेढयुरोऽथवा । लाङ्गलं वा तदा मृत्युरेकद्वित्रिदिनैः क्रमात्। १८३ । शेते निमित्तकाले चेत् श्वा संकोच्याखि वपुः। धूत्वा की वलिवाङ्गं धूनोत्यथ ततो मृतिः।१८४ यदि व्योत्तमुखो लालां मुञ्चन् संकोचितेक्षणः। अगं संकोच्य शेते श्वा तदा मृत्युन संशयः॥१८५॥ ___ स्पष्टाः ॥ १८३-१८५ ॥ काकशकुनानि श्लोकद्वयेनाहयद्यातुरगृहस्यो काकपक्षिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥१८६॥ महानसे तथा शय्यागारे कोकाः क्षिपन्ति चेत् । चर्मास्थिरज्जु केशान् वा तदासन्नैव पञ्चतां ।१८७॥ ___स्पष्टौ ॥ १८६-१८७ ॥ अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाहअथवोपश्रुतेविन्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः॥१८॥ पूत्वो पञ्चनमस्कृत्याचार्यमन्त्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥१८९॥ चन्दनेनार्चयित्वा मां क्षिप्त्वा गन्धाक्षतादि च । सावधोनस्ततस्तत्रोपश्रुतेः श्रृणुयाध्वनिम् ॥१९० | अर्थान्तरापदेश्यश्च सरूपश्चति स द्विधो । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः॥१९१॥
॥७१४॥