________________
योगशाखम्।
॥७१२५
स्नातमात्रस्य हृत्पादं तत्क्षणाद्यदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् । १६५ हृदयं च पादौ च हृत्पादम् | शेषं स्पष्टम् ॥ १६५ ॥ तया-
जायते दन्तघर्षश्श्रेच्छवगन्धश्च दुःसहः । विकृता भवति च्छाया त्र्यहेण म्रियते तदा । १६६
स्पष्टः ॥ १६६ ॥ तथा-
न स्वनासां स्वजिह्वां न न ग्रहान्नामला दिशः। नापि सप्तऋषीन् यर्हि पश्यति म्रियते तदा
स्पष्टः ॥ १६७ ॥ तथा
प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च । शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे । न शिरो दश्यते तस्यां यदा स्यान्मरणं तदा ॥ १६९ ॥ नेक्ष्यते वामबाहुश्चत् पुत्रदारक्षयस्तदा । यदि दक्षिणाबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा ॥ १७० ॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे भवेत् ॥ १७१ || अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ १७२ ॥
स्पष्टाः ॥ १६८-१७२ ॥ प्रकारान्तरेण कालज्ञानमाह -
पश्चमः प्रकाशः ।
७१२॥