________________
शास्त्रम्
पञ्चमः प्रकाशः।
१७११॥
स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ॥१५६॥१५७॥ तथा-- जिह्वा नास्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न श्रृणुतः शब्दं गन्धं वेत्तिन नासिको।१५८ स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः। नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ॥१५९॥ न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा । अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपि ज्वलेत्।१६० | हंसकाकमयूराणां पश्येच्च क्वापि संहतिम् । शीतोष्णखरमृद्वादेरपि स्पर्श न वेत्ति च ॥१६१॥i
अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युन संशयः॥१६२ ।। __पञ्चापि स्पष्टाः ॥१५८-१६२॥ तथाशीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये। अङ्गपञ्चकशैत्ये च स्योद्दशाहेन पञ्चता ॥१६३॥
व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किश्चिद्विवृतोऽष्टद्वयस्य वायुना कृतः फुत्कारो यधुष्णो भवति, स्मृतिगत्योश्च भ्रंशो भवति, अङ्गपश्चकशैत्यं च भवति, तदा दशाहेन मृत्युः॥१६३।। तथा-- अ?ष्णमर्धशीतं च शरीरं जायते यदा। ज्वालाकस्माज्ज्वलेद्वाङ्गे सप्ताहेन तदा मृतिः॥१६४।
स्पष्टः ॥ १६४ ॥ तथा
॥७११॥