________________
योग
शास्त्रम्
॥७१०॥
BEER CUF OXO O
आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत्, ते पन्नगा यदा न दृश्यन्ते तदा षण्मास्या अन्ते मृत्युः || १४९ ॥ १५०॥ तथा
स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्त्रगम्बरम् । पश्येद् याभ्यां खरे यान्तं स्वं योऽब्दार्थं स जीवति । १५१
स्पष्टः ।। १५१ ।। तथा
घण्टानादों रतान्ते चेदकस्मादनुभूयते । पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥१५२॥
स्पष्टः || १५२ ॥ तथा
शिरो वेगात्समारुह्य कृकलासो व्रजन् यदि । दध्याद्वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ १५३ ॥
स्पष्टः ॥ १५३ ॥ तथा
वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वस्थानाद्भश्यतः कणैौ चतुर्मास्यां तदा मृतिः ॥ १५४॥
स्पष्टः || १५४ ॥ तथा
| कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ १५५ ॥
स्पष्टः || १५५ ।। तथा
इन्दुमुष्णं रविं शीतं छिद्रं भूमौ वावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ १५६॥ तालुकम्पो मनःशोको वर्णोऽङ्गे नैकधा यदा । नाभेाकास्मकी हिक्का मृत्युर्मासद्वयात्तदा ॥१५७॥
पञ्चमः प्रकाशः ।
॥१०॥