________________
योग
शास्त्रम्
पञ्चमा प्रकाश
७०९॥
गृध्रः काकः कपोतों वा क्रव्यादोऽन्योऽपि वा खगः ।
निलीयेत यदा मूर्ति षण्मास्यन्ते मृतिस्तदा ॥१४४॥ __ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदं । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ॥१४३॥१४४॥ प्रत्यहं पश्यतोनभ्रेऽहन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधन्वा तु तत्रा दृश्यते ॥१४५॥ यदा न दृश्यते तत्तु मासैः षइभिर्मतिस्तदा । परनेत्रो स्वदेहं चेन्न पश्येन्मरणं तदा ॥१४६।। ___ अनभ्रंऽहनि मुखमापूर्य जलैः पूत्कृतेन ऊध्वं क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति तदा षभिर्मासमतिः । परकनीनिकायां स्वदेहो दृश्यते, यदा तं न पश्येत्तदा षभिर्मासैमरणम् । ॥१४५॥१४६॥ तथाकूर्परौ न्यस्य जान्वोम॒न्येकीकृत्य करौ सदा। रम्भाकोशनिभां छायां लक्षयेदन्तरोद्भवाम् ॥१४७॥ | विकासि च दलं तो यदेकं परिलक्ष्यते । तस्यामेव तिथौ मृत्युः षण्मास्यन्ते भवेत्तदा ॥१४॥ ___ अनभ्रेऽहनीति वर्तते । शेषं स्पष्टम् ॥१४७॥१४८॥ तथाइन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालङ्करणाः पन्नगाः सूक्ष्ममूर्तयः॥१४९॥ दिवा संमुखमायान्तो दृश्यन्ते व्योनि सन्निधौ । न दृश्यन्ते यदा ते तु षण्मास्यन्ते मृतिस्तदा१५०||
11७०९॥