________________
Imamiman
योगशाखम्
68 पश्वमा
प्रकाशः।
11७०४॥
तत्र सोमस्याधो देशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः । सोमस्यैवोपरिदेशे भ्रलतासमीपवर्तिनि दलेऽदृश्यमाने त्रिभिर्मासैमत्युः । अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयेन मृत्युः। घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन मृत्युः ॥१२२॥
तथाअयमेव क्रमः पद्मे भोनवीये यदा भवेत् । दशपञ्चत्रिद्विदिनैः क्रमोन्मृत्युस्तदा भवेत् ॥१२३॥ __ अयमेवाङ्गुलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासङ्ख्यं दशभिः पञ्चभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ॥१२३॥ तथाएतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः । दलानि यदि वीक्षेत मृत्युदिनशतात्तदा ॥१२४॥ एतान्येव दलानि सोमसूर्यसंबन्धीनि अङ्गुलीभिरपीडयमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥१२४॥
अथ श्रोत्रलक्षणं श्लोकद्वयेनाह1}| ध्यात्वा हृद्यष्टपत्राब्जं श्रोत्रे हस्तोग्रपीडिते । न येतामिनि?षो यदि स्वः पञ्च वासरान् ।१२५/ दश वा पञ्चदश वा विंशति पञ्चविंशतिम् । तदा पञ्च चतुस्त्रिद्वयेकवर्षेर्मरणं क्रमात् ॥१२६॥
हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रूयते तदा पञ्चभिर्वर्षे :, यदि दश वासरान श्रूयेत तदा चतुर्विषः, यदि पञ्चदश वासरान श्रूयेत तदा त्रिभिवर्षे , यदि
1७०७॥