SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ योगशाखम्। पञ्चमा प्रकाशः। ॥७०३॥ अध्यात्मिकविपर्यासः संभवेद्वन्याधितोऽपि हि। तन्निश्चयाय बध्नामि बाह्य कालस्य लक्षणम् ॥११८ ____ अध्यात्मिकस्य शरीरान्तर्गतस्य वायोाधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्चयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ॥११८॥ नेत्रश्रोत्रशिरोभेदात् स च त्रिविधलक्षणः। निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः ॥११९॥ स च कालो नेत्रश्रोत्रशिरोभेदात् त्रिविधं लक्षणं ज्ञापकं यस्य स तथा, सूर्यमाश्रित्यालम्ब्य निरीक्षणीयः। अपरसिविधादन्यो यथेष्टं स्वेच्छया निरीक्षणीयः ॥११९।। तत्र नेत्रलक्षणमाहवामे तत्रेक्षणे पद्म षोडशच्छदमैन्दवम् । जानीयाद्धानवीयं तु दक्षिणे द्वादशच्छदम् ॥१२०॥ ___ वामे लोचने ऐन्दवं षोडशदलं पद्म चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्म चिन्तयेत् ॥१२०॥ - खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु । प्रत्येकं तत्र दृश्यानि स्वार्जुलीविनिपीडनात् ॥१२॥ __तत्र षोडशदले पद्मे चत्वारि दलानि खद्योतद्युतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमपि द्वयोरपि पद्मयोः ॥१२१॥ तत्रसोमाधो भूलतापाङ्गघ्राणान्तिकदलेषु तु । दले नष्ट क्रमान्मृत्युः षत्रियुग्मैकमासतः ॥१२२॥ ॥७०३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy