________________
योगशाखम्।
पञ्चमः प्रकाशः।
॥७०२॥
एकोनत्रिंशतं दिनानि वहति वायौ दशमे दिने मृत्युः। त्रिंशतं दिनानि वहति वायौ पञ्चमे दिने मृत्युः ॥११४॥
तथा-- एकत्रिंशदहचरे वायौ मृत्युर्दिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥११५||
एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः। द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः॥११५॥
इदानीं सूर्यनाडीचारमुपसंहरचन्द्रनाडीचारमाचष्टे-- त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता। एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत् ॥११६॥ ___ त्रयविंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः। इन्दनाड्यां यद्येवं वायुचारो भवति तदा न मृत्युभवति, किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात् , आदिशब्दात्मुहन्नाशमहाभयस्वदेशविरहधनपुत्रादिनाशराजविनाशदुर्भिक्षादयः संगृह्यन्ते ॥११६॥
उपसंहरतिअध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः। एवमभ्यासयोगेन जानीयोत्कालनिर्णयम् ।११७॥
आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्म शरीरान्तर्गतं वायुमाश्रित्य सोमसूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥११७॥
बाह्यं काललक्षणं जिज्ञापयिषुः प्रस्तौति
"
॥७०२॥