________________
योग- शाखम्।
पञ्चमा प्रकाशः।
तथा
॥७०५॥
विंशति वासराम श्रयेत तदा द्वाभ्यां वर्षाभ्यां, यदि पञ्चविंशति वासरान श्रुयेत तदा वर्षेण मृत्युभवेत् ॥१२५॥ ॥१२६॥
तथा एकद्वित्रिचतुःपञ्चचतुर्विंशत्यहाक्षयात् । षडादिषोडशदिनान्यान्तराण्यपि शोधयेत् ॥१२७॥ ___एकस्या द्वयोस्तिमृणां चतसृणां पश्चानां च दिनचतुर्विशतीनां क्षयात् षडादीनि षोडशदिनान्यान्तराणि शोधयेत । तथाहि-पश्च दिनानि अश्रूयमाणे श्रोत्रनिर्घोषे पञ्चभिर्व पैमृत्युर्भवतीत्युक्तम् ततश्च षष्ठेऽपि दिनेऽश्रयमाणे निघोंषे पञ्चभ्यो वर्षेभ्य एकस्या दिनचतुर्विशतेरपनयने षट्सप्तत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युभवेत् । सप्तमदिने ऽप्यश्रयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यो द्वयोश्चतुर्विशत्योरपनयनेऽष्टाविंशत्यधिकैः सप्तदशभिदिनशतैमृत्युभवेत । अष्टमेऽपि दिनेऽश्रयमाणे श्रोत्रनि?षे प्राग्दिनेभ्यश्चतसृणां चतुर्विशतीनामपनयने षट्पञ्चाशदधिकैः षोडशभिर्दिनशतैर्मत्युः नवमेऽपि दिनेऽश्रूयमाणे निर्घोषे प्राग्दिनेभ्यश्चतसृणां चतुर्विंशतीनमपनयने षष्टयधिकैः पञ्चदशभिर्दिनशमत्युः दशमेऽपि दिनेऽश्रयमाणे नि?षे प्राग्दिनेभ्यः पश्चानां चतुर्विशतीनामपनयने चतुर्भिवै मृत्यरित्यक्त मेव । एवमेकादशादिषु षोडशादिष्वेकविंशत्यादिष्वप्यूह्यम् ॥१२७॥
अथ शिरोलक्षणमाह-- ब्रह्मद्वारे प्रसर्पन्तीं पञ्चाहं धूममालिकाम् । न चेत् पश्येत्तदा ज्ञेयो मृत्युः संवत्सरौत्रभिः॥१२८॥
ब्रह्मरन्ध्र प्रसर्पन्तीं धूमरेखां गुरूपदेशदृश्यां यदि पञ्च दिनानि यावन्न पश्यति तदा त्रिभिर्व मत्युः॥१२८॥
॥७०५॥