________________
योगशास्त्रम्
॥६९६ ॥
तथैव सूर्यनाडयामहोरात्रं वहन् वायुर्दशमे वर्षे, द्वयहं वहन्नष्टमे वर्षे त्र्यहं वहन् षष्ठे वर्षे मृत्यवे भवति
॥८९॥
तथा
वहन् दिनानि चत्वारि तुर्येऽब्दे मृत्यवे मरुत् । साशीत्यहः सहस्र तु पञ्चाहानि वहन् पुनः ॥ ९० ॥ ॥ तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्यवे । पश्च दिनानि तथा वहन् वायुरशीत्यधि दिनसहखे वर्ष इत्यर्थः ॥९०॥ तथा-
एकद्वित्रिचतुःपञ्चचतुर्विंशत्यहःक्षयात् । षडादीन दिवसान् पञ्च शोधयेदिह तद्यथा ॥९१॥
साशीत्यहः सहखमध्यादेकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां चतुर्विंशतीनां यथाक्रमं पातनेन पट् सप्ताष्टौ नव दश च दिनानि शोधयेत्, तद्गतं च कालं जानीयात् । तद्यथेति विवरणोपन्यास चतुभिः श्लोकैः ॥९१॥ षट्कं दिनानामभ्यर्के वहमाने समीरणे । जीवत्यह्नां सहस्रं षट्पञ्चाशद्दिवसाधिकम् ॥ ९२ ॥ || षट् दिनान्यर्कनाडा वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति अशीत्यधिक सहखादेकचतु विंशत्यपनयने एतदेव भवति ॥ ९२ ॥
तथा
सहस्रं सोष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशतीं जीवेदष्टाहवाहिनि ॥ ९३॥ सप्ताहवाहिनि वायावष्टोत्तरं दिनसहखं जीवेत्, षट्पञ्चाशदधिकसहखात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव
पश्चम प्रकाशः
॥१९६॥