________________
योग शखिम्
॥६९५॥
येषु पञ्चाहगमनं वायोर्निदिष्टं तेषु द्वित्रिचतुर्दिवसवाहिनि मारुते पञ्चाहफलानुसारेण मरणवर्षमूह्यं । अब्दभागैस्तु ते शोध्या इति पञ्चाहवाहिनि वायौ किलाष्टादशाब्दानि ततो दिनचतुष्टयवाहिनि एकदिवसभागे वर्षत्रयं मासाः सप्त दिनानि षट् अस्मिन् शोधिते लब्धं चतुर्दश वर्षाणि चत्वारो मासाः चतुर्विंशतिर्दिनानि । एवं द्वयहत्र्यहवाहिन्यपि वाच्यं । शरदादिष्वप्येवमेव भागशुद्धिः कार्या ॥ ८५ ॥
अथ प्रकारान्तरेण वायुनिमित्तं कालज्ञानोपदेशं प्रतिजानीते-
अथेदानीं प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । सूर्यमार्गे समाश्रित्य स च पौष्णेऽवगम्यते ॥८६॥
स्पष्टः || ८६|| पौष्ण इत्युक्तं तस्य स्वरूपमाह-
जन्मऋक्षगते चन्द्रे समसप्तगते रवौ । पौष्णनामा भवेत्कालो मृत्यु निर्णयकारणम् ॥८७॥
यदा जन्मनक्षत्रे चन्द्रः समसप्तगतश्च सूर्यो भवति तदा पौष्णः कालः ॥८७॥
तस्मिन् सूर्यनाडीप्रवाहेण कालज्ञानमाह-
दिन दिनमेकं च यदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽब्दे मृत्यवे भवति क्रमात् ॥ ८८ ॥ दिना सूर्यनाडयां वहन् वायुश्चतुर्दशे वर्षे दिनं तु वहन् द्वादशेऽब्दे मृत्यवे स्यात् ||८८|| तथातथैव च वहन् वायुरहोरात्रं द्वयह त्र्यहम् । दशमाष्टमषष्ठाव्देष्वन्ताय भवति क्रमात् ॥ ८९ ॥
पञ्चमः
प्रकाशः।
|||६९५ ॥