________________
योग. शाखम्।
पञ्चमा प्रकाशः।
॥६९४५
संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः। प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत् ॥७॥
वामनासायां त्रयोदश संक्रान्तीय॑तिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति।।७८||तथा-- मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः। वहन् पञ्चाहमाचष्टे वत्सरेऽष्टोदशे मृतिम् ॥७९॥
___ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाड्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ॥७९॥ तथा| शरत्संक्रान्तिकालाच पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् ॥८॥
____ अश्वयुक्प्रथमदिवसादारभ्य पञ्च दिनान्येकनाडयां यदि वायुर्वहेत् तदा पञ्चदशवर्षान्ते मरणम् ॥८०॥ तथा-- | श्रावणादेः समारभ्य पश्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥८१॥ | वहन् ज्येष्ठादिदिवसादशाहानि समीरणः। दिशेन्नवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥८२॥ | आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषट्कस्य मृत्यु नियतमादिशेत् ॥८३॥ | आरभ्य माघमासादेः पच्चाहानि मरुद्वहन् । सवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥८४॥
____ अमी चत्वारः श्लोकाः पूर्ववद्वयाख्येयाः ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ तथाill सर्वत्रा द्वित्रिचतुरो वायुश्चेदिवसान वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥५॥
॥६९४॥