________________
योग
शास्त्रम्
॥ ६९३॥
009 CHOCO FORCE
वायुस्त्रिमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थः संक्रान्तौ मरणं दिशेत् ॥ त्रिषु मार्गेषु इडापिङ्गलासुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ ७४ ॥ तथा-दशाहं तु वहन्निन्दावेवोद्वेगरुजे मरुतू । इतश्चेतश्च यामार्धं वहन् लाभार्चनादिकृत् ॥७५॥
चन्द्र एवं दशाहानि बहन् मरुत् उद्वेगाय रुजे च स्यात् । यामार्धं यावदितश्चेतश्च वामाया दक्षिणायां, दक्षिणायाः (च) वामायां वायुर्वहन् लाभपूजादिकारी भवति ॥ ७५ ॥ तथा-विषुवत्समयप्राप्तौ स्पन्देते यस्य चक्षुषो । अहोरात्रेण जानीयात्तस्य नाशमसंशयम् ॥ ७६ ॥
समरात्रिन्दिवः कालेा विषुवान् स चासौ समयश्च तस्य प्राप्तौ सङ्गमे यस्य चक्षुषी स्पन्देते, स्पन्दनं वायोविकार इति नाधिकारभ्रंशः । शेषं स्पष्टम् ॥ ७६ ॥ तथा— पञ्चातिक्रम्य संक्रान्तीर्मुखे वायुर्वहन् दिशेत् । मित्रार्थहानी निस्तेजोऽनर्थान् सर्वान्मृति विना ॥ नाडयन्तरे वायोः संक्रमकालः संक्रान्तिः, तत्सक्रान्तिपञ्चकमतिक्रम्य षष्ठयां संक्रान्तौ यदा मुखेन वायुर्वहति तदा मित्रानिमर्थहानिं, निस्तेजः, सर्वाननर्थानिति उद्वेगरोग देशान्तरगमनादीनादिशेत्, मरणं विना, मृतिस्तु न स्यात् ॥ ७७ ॥ तथा-
पश्ञ्चमः प्रकाशः ।
॥६९३॥