________________
योगशाखम्
प्रकाशः।
॥६९७॥
भवति । अष्टाहवाहिनि तु वायौ पत्रिंशदधिकां दिननवशतीं जीवेत् , अष्टोत्तरसहस्रात्तिमृणां चतुर्विंशतोनामपन यने एतदेव भवति ॥१३॥
तथा-- एकत्रैव नवाहानि तथा वहति मारुते । अनामष्टशती जीवेच्चत्वारिंशदिनाधिकोम् ॥९॥
नव दिनानि वहति वायौ चत्वारिंशदधिकां दिनानामष्टशतीं जीवेत् पत्रिंशदधिकनवशतीमध्याच्चतमृणां
चतुर्विशतीनामपनयने एतदेव भवति ॥१४॥ तथा-- । तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामना जीवेत्सप्तशती ध्रुवम् ॥१५॥ ____ दश वासरान् वायौ वहति विंशत्यधिकां दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्वि
शतीनामपनयने एतदेव स्यात् ॥९५॥ तथाएकद्वित्रिचतुःपञ्चचतुर्विंशत्यहाक्षयोत् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१६॥ ___ स्पष्टः ॥९६॥ तद्यथेति एनमेव श्लोकं विवृणोतिएकादश दिनान्यर्कनाड्यां वहति मारुते। षण्णवत्यधिकान्यहनां षट् शतान्येव जीवति ॥९७॥
एकादश दिनानि वहति वायौ षण्णवत्यधिकानि दिनानां षट् शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याश्चतुर्विशतेरपनयने एतदेव भवति ॥९७॥
तथा
॥६९७॥