________________
योगशास्त्रम् ।
॥६८५।।
ततो गुल्फे, ततो जङ्घायां ततो जानुनि, ततोऽप्यूरौ ततो गुदे ॥२८॥ ततो लिगे, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायां ततस्तालुनि, ततो नासाग्रे, ततो नेत्रयोः, ततो भ्रुवो:, ततो ललाटे, ततः शिरसि ||२९|| एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥३०॥ ततस्तैनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत्, ततो नाभिपद्ममध्यं नीत्वा वायुं विरेचयेत् ॥३१॥
अथ धारणायाः फलं श्लोकचतुष्टयेनाह
पादाङ्गुष्ठादौ जङ्घायां जानूरुगुदमेदने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च ॥ ३२ ॥ att ज्वरादिघाताय जठरे कायशुद्धये ॥ ज्ञानाय हृदये कूर्मनाड्यां रोगजराच्छिदे ॥ ३३ ॥ कण्ठे क्षुत्तर्षनोशाय जिह्वा - रससंविदे । गन्धज्ञानाय नासाग्रे रूपज्ञानाय चक्षुषोः ॥३४॥ भाले तद्रोगनाशोय क्रोधस्योपशमाय च । ब्रह्मरन्त्र च सिद्धानां साक्षाद्दर्शनहेतवे ॥ ३५ ॥
पादाङ्गुष्ठे, आदिशब्दात् पाष्ण गुल्फे च, जङ्घायां, जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्रगत्यै बलाय च भवति ||३२|| शेषं सुगमम् ॥ ३३ ।। ३४ ।। ३५ ।।
अथ धारणामुपसंहृत्य पवनचेष्टितमाह
अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद्गतसंशयः ॥ ३६ ॥
स्पष्टः ।। ३६ ।। तद्यथा
पञ्चमः प्रकाशः ।
॥६८५॥