________________
योग
शास्त्रम्
॥६८४॥
प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह -
यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः । तच्छान्त्यै धारयेत्तत्र प्राणादिमरुतः सदा । २५ || स्पष्टः ||२५|| पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति --
एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्येन्मनः स्थैर्यकृते सदा ॥२६॥ धारणादिकमभ्यस्येत्, आदिशब्दात् ध्यानसमाधी, किमर्थ ? मनः स्थैर्यार्थम् ||२६|| अथ धारणादिविधिं श्लोकपञ्चकेनाह
उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । आपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥२७॥ पादाङ्गुष्ठे मनः पूर्वं रुध्ध्वा पादतले ततः। पाष्णौ गुल्फे च जङ्घायां जानुन्यूरौ गुदे ततः ॥ २८ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठरसनेऽपि च । तालुनासाग्रनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥ २९ ॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह । स्थानात्स्थानान्तरं नीत्वा यावदब्रह्मपुरं नयेत् ॥३०॥ ततः क्रमेण तेनैव पादाङ्गुष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥ ३१ ॥
उक्तानि यानि पर्यङ्कादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठप्रान्तं यावत् पूरयेत् वाममार्गेण वामनाड्या ||२७|| पादाङ्गुष्ठे मनः प्रथमं रुध्ध्वा धारयित्वा ततः पादतले, ततोऽपि पाण
पञ्चमः
प्रकाशः ।
॥६८४॥