________________
पागशास्रम्
॥६८३॥
प्रकाश।
अभ्यासक्रवाह-सङ्कोचप्रसूतिक्रमात् सङ्कोचेन प्रसरणेन चेत्यर्थः ॥२०॥
अथैषां ध्यातव्यवीजान्याहप्राणापानसमानोदानव्यानेष्वेषु वायुषु । ये पैरौ लौ बीजानि ध्यातव्यानि यथाक्रमम्॥२१॥
प्राणस्य य इति बीजं. अपानस्य पै समानस्य वै, उदानस्य रौं व्यानस्य लौ ॥२१॥
इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाहप्राबल्यं जाठरस्याग्नेर्दीर्घश्वासमरुज्जयौ । लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥२२॥ दीर्घोऽन्युच्छिन्नः श्वासः प्राणधारणप्रत्ययार्य, प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुज्जयो भवतीति॥२२॥ तथा रोहणं क्षतभङ्गादेख्दरामेः प्रदीपनम् । वचोऽल्पत्वं व्याधिघातः समानापानयोजये ॥२३॥
रोहणं रोपणं, कस्य ? क्षतभङ्गादेः क्षतस्य-वणस्य, भङ्गस्य-अस्थ्यादिसंबन्धिनः, आदिशब्दादन्यस्य तत्प्रकारस्य । शेष स्पष्टम् ॥२३॥ तथाउत्क्रान्तिर्वारिपङ्कायेश्वाबाधोदाननिर्जये। जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता ॥२४॥
उत्क्रान्तिरुत्क्रमणं प्रयाणकालेऽचिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति करोतीत्यर्थः । जलपकादिभिश्चाबाधा, तैर्न प्रतिहन्यत इत्यर्थः । आदिशब्दात् कण्टकादिपरिग्रहः उदाननिर्जये सति ।व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा, कान्तिर्दीप्तिः, अरोगिताऽऽरोग्यम् ॥२४॥
॥६८३॥