________________
योग
शास्त्रम्
॥६८२ ॥
गच्छति यः स तथा, स्वस्थानं मन्यादि तद्गतरेचनपूरणाभ्यां जेयः ||१६||
अथ समानस्य -
शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः । जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥ १७॥ शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य स स्वस्थानेऽसकृद्रेचनात् पुरणाच्च यः ॥ १७॥ अथोदानस्य
रक्तो हत्कण्ठतालुभ्रूमध्य मूर्धनि संस्थितः । उदानो वश्यतां नेयो गत्योगतिनियोगतः ॥ १८ ॥ रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रूमध्यं मूर्धा च स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां नेयः ॥१८॥ गत्यागतिप्रयोग मेवाह-
नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु । बलादुत्कृष्यमाणं च रुध्ध्वा रुध्ध्वा वशं नयेत् ॥ १९ ॥ तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन नासयाऽऽकर्षणमधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बलादाकृष्यमाणं ऊर्ध्वं नीयमानं रुध्ध्वा रुध्ध्वा विधार्य विधार्य वशं नयेत् ॥ १९ ॥
अथ व्यानस्य --
सर्वत्वग्वृत्तिको व्यानः शक्राकार्मुकसन्निभः । जेतव्यः कुम्भकाभ्यासात्सङ्कोवप्रसृतिक्रमात् ॥२०॥ सर्वस्यां त्वचि वर्तमानः इति स्थाननिर्देशः । शक्रकार्मुकसन्निभ इति वर्णनिर्देशः । कुम्भकाभ्यासाज्जेतव्यः ।
पश्चमः प्रकाशः ।
१६८२॥