________________
योगशास्त्रम्
पञ्चमः प्रकाश
॥६८२॥
प्रकर्षेण नयतीति प्राणः, मूत्रपुरीषगर्भादीनपनयतीत्यपानः, अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयतीति समानः, रसादीनू नयतीत्युदानः, व्यानयति व्यामोतीति व्यानः, डप्रत्ययान्ता एते। अथवा प्रसरणेनापसरणेन समन्तात्प्रसरणार्श्व व्याप्त्या च अनिति अनेनेति घन्ताः प्राणमपानं समानमुदानं व्यानं च वायु प्राणायामै रेचकादिभिर्जयेद्योगी । किविशिष्टः ? स्थानवर्णक्रियार्थबीजवित् प्राणादीनां स्थानं वर्ण क्रियामर्थ बीजं च वेत्ति यः स तथा ॥१३॥
तत्र प्राणस्य स्थानादीन्याहप्राणो नासोग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् । गमागमप्रयोगेण तज्जयो धारणेन वा ॥१४॥
प्राणो नाम वायुर्नासाग्रे हृदि नाभौ पादाङ्गुष्ठान्ते च गच्छतीति स तथा इति स्थानं । हरिदिति वर्णः। गमागमप्रयोगेण धारणेन च (वा) तज्जयः इति क्रिया । अर्थों बीजं च वक्ष्यते ॥१४॥ ___अथ गमागमप्रयोग धारणं च व्याचष्टे-- नासादिस्थानयोगेन पूरणाद्रेचनान्मुहुः । गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः ॥१५॥ ___स्पष्टः ॥१५॥ अथापानस्य-- अपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाणिगः। जयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः ११६॥
कृष्णरुक कृष्णवर्णः, मन्ये ग्रीवापश्चान्नाडयौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागो, तेषु
॥६८२॥