________________
योगशास्त्रम्
प्रकाशा
॥६८०॥
ननं तत्र द्वाराणि तैर्यों वायोनिरोधः स शान्तः ॥८॥ तथाआपीयोर्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः॥९॥
आपीय पीत्वा बाह्यवायुमूर्ध्वमुत्कृष्योन्नीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः उर्ध्वदेशादधोनयनरूपः। ननु रेचकादिषु कथं प्राणायामो गतिविच्छेदरूपो हि स उच्यते ? उच्यते--यत्र रेचके कोष्ठयो वायुविरेच्य बहिर्धार्यते तत्रास्ति श्वासप्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगतिच्छेदः, एवं कुम्भकादिष्वपि ॥९॥
रेचकादीनां फलमाहरेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोंगेन व्याधिघातश्च जायते ॥१०॥ विकसत्योशु हृत्पनं प्रन्थिरन्तर्विभिद्यते । वलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥११॥ प्रत्याहारावलं कान्तिपिशान्तिश्च शान्ततः । उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥
श्लोकत्रयं स्पष्टम् ॥१०॥११॥१२॥
न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पश्चानामपि वायूनां जयहेतुरित्याहप्राणमपानसमानावुदानं व्यानमेव च । प्राणायामैजयेत् स्थानवर्णक्रियार्थबीजवित् ॥१३॥
॥६८०॥