________________
योगशास्त्रम्
॥६७९।।
Eh
बाह्यस्य वायोराचमनं श्वासः, कोष्ठस्य वायोर्निश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः । स त्रिधा - रेचकः पूरकः कुम्भकश्चेति ॥४॥
आचार्यान्तरमतेन भेदान्तराण्याह-
प्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा । एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥५॥ प्रत्याहारशान्तोत्तराधरलक्षणैश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ||५||
क्रमेणैषां लक्षणमाह-
यत्कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥६॥ कोष्ठादुदरात् अतियत्नेन नासया ब्रह्मरन्ध्रेणाननेन च यद् बहिः प्रक्षेपणं वायोः स रेचकः प्राणायामः ||६||
तथा-
समाकृष्य यदापानात् पूरणं स तु पूरक: । नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः ॥ ७ बाह्येन वायुना आकृष्टेन आ अपानं (नात् ) यत् कोष्ठस्य पूरणं स पूरकः । यत् पुनर्नाभिपद्मे कुम्भ इव वायोः स्थिरीकरणं स कुम्भकः ||७|| तथा-स्थानात्स्थानन्तरोत्कर्षः प्रत्याहारः प्रकीर्तितः । तालुनासाननद्वारर्निरोधः शान्त उच्यते॥८॥ स्थानात् नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षणं स प्रत्याहारः । त.लु च नासा चाननं च तालुनासा
SHOREEN COOKEE CHDAYERE
पश्चम
प्रकाशः
॥६७९॥