________________
योगशास्त्रम्
॥६७८ ॥
प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात् यमनं गतिविच्छेदः प्राणायामः । ततः आसनजयादनन्तरं कैश्चित् पातञ्जलिप्रभृतिभिः आश्रितोऽङ्गीकृतः ध्यानसिद्धये ध्यानसिद्ध्यर्थ । तदाश्रयणे कारणमाहइतरथा मनसः पवनस्य च जयः कर्तुं न शक्यः ॥१॥
ननु प्राणायामात् पवनविजयो भवतु, मनोविजयस्तु कथं ? इत्याह
मनो यत्र मरुत्तत्र मरुयत्र मनस्ततः । अतस्तुल्यक्रियावेतौ संवीतौ क्षीरनीरवत् ॥२॥
मनश्चेतो यत्र देशे तत्र मरुत्, यत्र मरुत् ततो मनः, तत इति आद्यादित्वेन सप्तम्यन्तात्तसुः । अत एतौ मनःपवनौ तुल्यक्रियौ तुल्ये क्रिये गमनस्थानलक्षणे ययोस्तौ तथा । संवीतौ क्षीरनीवत् यथा क्षीरनीरे मिलिते समरसता वर्तेते तथा मनःपवनावपि ॥२॥
तुल्यक्रियत्वमेव भावयति-
एकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते। ३ । एकस्य मनःपवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात्, वृत्तौ प्रवृत्तौ वर्तनं प्रवृत्तिः स्यात् । मनःपवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच्च मोक्षो भवति ||३||
प्राणायामस्य लक्षणं तद्भेदांचाह-
प्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्नतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥४॥
पञ्चम प्रकाशः
॥६७८ ॥