________________
योगशास्त्रम्
॥६७७॥
आचार्य श्री हेमचंद्रविरचितम् ।
॥ योगशास्त्रम् ॥
(स्वोपज्ञविवरणसहितम्) ( द्वितीयो विभागः ) ॥ पञ्चमः प्रकाश ॥
ॐ नमः सर्वज्ञाय परमात्मने श्रीजिनेन्द्राय || अत्रान्तरे परैः प्राणायाम उपदिष्टो " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्येति " वचनात् । न प्राणायामो मुक्तिसाधने ध्याने
उपयोगी, असौमनस्यकारित्वात् । यदाहुः -
१ऊसासं न निरुंभइ आभिग्गहिओ वि किमुअ चिहाए ? । सज्ज मरणं निरोहे सुहुमोसासं तु जयणाए ॥१॥ तथापि कायारोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्श्यतेप्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ॥१॥
(१) उच्छ्वासं न निरुणद्धि आभिग्रहिकोऽपि किमुत चेष्टावान् ? । सद्यो मरणं निरोधे (ततः) सूक्ष्मोच्छ्वासं तु यतनया (ग्राह्यः)। १ ।
==htohoKEX
पश्चम
प्रकाशः
॥६७७।।