________________
योग
शास्त्रम्
॥६७६ ॥
सुखं सुखावहं आस्यतेऽनेन आस्ते वाऽनेन तदासनं, सुखं च तदासनं च तेनासीनः अनेनासनजयमाह । सुष्टि मिलितावधरपल्लवौ यस्य स तथा अनेन प्राणप्रसरनिषेधमाह । नासाग्रे न्यस्तं दृग्द्वन्द्वं येन स तथा, अनेन प्राणजयस्य हेतुमाह । दन्तैरुपरितनैरधस्तनैश्व दन्तानुपरितनानधस्तनांचा संस्पृशन्, तत्संस्पर्शे हि ध्याननिश्चलता न स्यात् । तथा प्रसन्नं रजस्तमोरहितत्वेन प्रसादवत् भ्रूविक्षेपादिरहितं वदनं यस्य सः । तथा पूर्वाभि मुखो वा उदमुखो वा, अनेनानयोर्दिशोः पूज्यत्वमाह । जिनजिनप्रतिमाभिमुखो वा । अप्रमत्तः प्रमादरहितः अनेन मुख्यमधिकारिणमाह । यदाह – धर्म्यमप्रमत्तसंयतस्य शोभनमृज्वायतमूर्त्तिकं संस्थानं शरीरसन्निवेशो यस्य स तथा । एवंविधः सन् ध्याता ध्यानोद्यतो भवेत् ध्याने उद्यच्छेत् ।
इति निगिदितमेतत्साधनं ध्यानसिद्धे — तिगृहित भेदाद्भिनरत्नत्रयं च ।
सकलमपि यदन्यध्ध्यानभेदादि सम्यक् प्रकटितमुपरिष्टादष्टभिस्तत्प्रकाशैः ॥ १ ॥ १३५॥१३६॥ इति परमाईत श्री कुमारपाल भूपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नानि संजातपट्टबन्धे श्री योगशास्त्र स्वोपज्ञं चतुर्थप्रकाशविवरणम् ॥ ********************************
इति योगशास्त्रे प्रथमो विभागः
2008-06-30€ 100€ 100€ 38€ 30£*******
चतुथ प्रकाशः
||६७६ ॥