________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥६७५||
तो देसकालचेट्टानियमो ज्झाणस्स नत्थि समयम्मि । जोगाण समाहाणं जह होइ तहा पयइअव्वं ॥२॥ न चैवमासनाभिधानमनर्थक, प्रतिमाकल्पिकान् प्रत्यासननियमस्याभिधानात् द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथाउत्ताणगपासल्ली नेसज्जीवावि ठाणठाइत्ता । सह उस्सग्गे घोरे दिव्वाई तत्थ अविकंपो॥१॥ नवम्यां यथा दोच्चा वि एरिस च्चिय बहिआ गामाइआण नवरं तु । उक्कडलगडसाई दंडाययउव्व ठाइत्ता ॥२॥ दशम्यां यथातच्चावि एष नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज्ज वि अंबखुज्जो उ ॥३॥१३४॥
इदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाहसुखासनसमासीनः सुश्लिष्टाधरपल्लवः नासाग्रन्यस्तहरद्वन्द्वो दन्तैर्दन्तानसंस्पृशन् ॥१३५॥ प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङमुखः। अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥१३६॥
(१) ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम्॥२॥ (२) उत्तानकः पार्श्वशायी नैषधिको वापि स्थानं स्थित्वा । सहेतोपसर्गान् घोरान् दिव्यादीन् तत्राविकम्पः॥१॥ (३) द्वितीयाऽपीदृशी चैव वहिामादिम्यो नवरं तु । उत्कटिकलगडशायी दण्डायतिक इव (को वा) स्थित्वा॥२॥ (४) तृतीयाऽप्येवं नवरं स्थानं तु तस्य भवति गोदोही । वीरासनमथवाऽपि तिष्ठेदप्याम्रकुब्जःतु (वा) ॥३॥
॥६७५॥