________________
चतर्थ
योगशास्त्रम्
प्रकाश
॥६७४॥
त्रिकी प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामधिसेहे । तथा एकापार्श्वशायित्वम् तच्चोर्ध्वमुखस्याधोमुखस्य तिर्यमुखस्य वा भवति । तथा दण्डायताशायित्वम् ऋजूकृतशरीरस्य प्रसारितजङ्घोरुद्वयस्य चलनरहितस्य तद्भवति । तथा लगडशायित्वं मूर्ध्नः पार्योश्च भूमिस्पर्शे शरीरेण भूमेरस्पर्शे तद्भवति । तथा समसंस्थाने यत् पार्घ्यग्रपादाभ्यां द्वयोराकुश्चितयोरन्योऽन्यपीडनं । तथा दुर्योधासनं यद्भूमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्ध, तस्मिन्नेव यदा जो पद्मासनीकृते भवतस्तदा दण्डपद्मासनं । तथा स्वस्तिकासनं यत्र सव्यमाकुञ्चितं चरणं दक्षिणजसोर्वन्तरे निक्षिपेत् दक्षिणं चाकुश्चितं वामजयोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद्यद्भवति । तथा क्रौञ्चनिषदनहंसनिषदनगरुडनिषदनादीन्यासनानि क्रौश्चादीनां निषण्णानां संस्थानदर्शनात प्रत्येतव्यानि । तदेवं न व्यवतिटते आसनविधिः ॥१३॥
ततःजायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसोधनम् ॥१३४॥
मेदस्विनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतेन सात्म्यविशेषात् स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयं । यदाह
सव्वासु वट्टमाणा मुणओ जे देसकालचिहासु । वरकेवलाइलाभ पत्ता बहुसो समिअपावा ॥१॥ (१) सर्वासु वर्तमाना मुनयो यद् देशकालचेष्टासु । वरकेवलादिलाभ प्राप्ता बहुशः शमितपापाः ॥१॥
॥६७४॥