________________
योगशाखम्
प्रकाशा
॥६७३॥
मभ्यस्येत् ॥१३॥ अथोत्कटिकासनगोदोहिकासनेपुतपाणिसमायोगे प्राहुरुत्कटिकासनम् । पाणिभ्यां तु भुवस्त्यागे तत्स्याद्गोदोहिकासनम्॥१३२॥
पुतयोः पाणिभ्यां भूमिलनाभ्यां योगे उत्कटिकासन प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् । यदाह-- १ भिअवहि उजुवालिअतीरे विसाहसियदसमिपहरतिगे । छठेणोकडुअडिअस्स केवलं आसि सालतले ॥१॥
तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ॥१३२॥ अथ कायोत्सर्गः-- प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा । स्थानं कायानपेक्षं यत्कायोत्सर्गः स कीर्तितः॥१३३॥
प्रलम्बितं भुजयोर्द्वन्द्वं यत्र तत्तथा, कायानपेक्षं स्थानं स कायोत्सर्गो नामासनमूर्ध्वस्थस्यासितस्य वा ऊर्ध्वस्थितानां कायोत्सर्गों जिनकल्पिकादीनां छअस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वर्जव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा, उपलक्षणात शयितानां वा यथाशक्ति भवति कायोत्सर्ग इति स्थानध्यानमौनक्रियाव्यतिरेकेण क्रियान्तरसंबन्धिनः कायस्योत्सर्गस्त्याग इत्यर्थः । इदं चासनानां दिक्प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थ, तथाहि-आम्रकुब्जासनम् आम्राकारतयाऽवस्थितिः, यथा भगवान् महावीर एकरा(१) जम्भिकादबहिः ऋजुवालिकावीरे वैशाखसितदशमीप्रहरत्रिके । षष्ठेनोत्कटिकास्थितस्य केवलमासीत् सालतले॥१॥
॥६७३॥