________________
चतुर्थ
प्रकाशः
॥६७२।।
उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोा पादयोर्यत्राङ्गुष्ठौ गृहणीयात् तद्वज्रासनं इदं योग
वेतालासनमित्यन्ये ॥ १२७ ॥ मतान्तरेण वीरासनमाह-- शाखम् II सिंहासनाधिरूढस्यासनापनयने सति । तथैवोवस्थितिय तामन्ये वीरासनं विदुः ॥१२०॥
सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैदान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः । पाताञ्जलास्त्वाहुः--ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुश्चितजानुरूर्ध्वमित्येतद्वीरासनमिति ॥ १२८ ॥ अथ पद्मासनम्-- जायो मध्यभागे तु संश्लेषो यत्र जङ्घया। पद्मासनमिति प्रोक्तं तदासनविचक्षणः॥१२९॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ॥१२९॥
अथ-भद्रसनम् | संपुटीकृत्य मुष्काग्रे तलपादौ तथोपरि। पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥१३०॥
स्पष्टम् । यत्पातञ्जला:--पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात् , एतद्भद्रासनम् ॥ १३० ॥
अथ दण्डासनम्-- श्लिष्टाङ्गुलीश्लिष्टगुल्फो भूश्लिष्टोरू प्रसारयेत । यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम्॥१३१ ।।
स्पष्टम् । यत्पातञ्जला:--उपविश्य श्लिष्टाछगुलीको श्लिष्टगुल्फो भूमिश्लिष्टजनौ च पादौ प्रसार्य दण्डासन
॥६७२॥