________________
योगशास्त्रम्
प्रकाशा
॥६७२॥
अथासनान्येवाहपर्यवीरवज्राब्जभद्रदण्डासनानि च। उत्कटिका गोदोहिका कायोत्सर्गस्तथासनम् ॥१२४॥
पर्यङ्कादिषु प्रत्येकमासनशब्दः संबध्यते ॥१२४॥
क्रमेणासनानि व्याचष्टेस्याजङ्घयोरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः॥१२५॥ ___ जङ्घयोरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र दक्षिणोत्तरोपरिवर्ती यत्र तत्तथा एतत्पर्यको नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनं यथा पर्यङ्कः पादोपरि भवति तथाऽयमपीति पर्यङ्कः "जानुप्रसारितबाहोः शयनं पर्य" इति पातञ्जलाः ॥१२५॥ ___ अथ वीरासनम्-- वामोऽह्रिर्दक्षिणोरूष वामोरूपरि दक्षिणः। क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम्॥१२६
वामोऽहिमपादो दक्षिणोरूवं वामस्य चोरोरुपरि दक्षिणोऽहिर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितं, न कातराणां, वीरासनं स्मृतं । अग्रहस्तन्यासः पर्यवत् , इदं पद्मासनमित्येके, एकस्यैव पादस्य ऊरावारोपणेऽर्धपद्मासनम् ॥१२६॥ अथ वज्रासनम्-- पृष्ठे वज्राकतीभूते दोभ्यां वीरासने सति। गृह्णीयात् पादयोर्यत्रगुष्ठौ वज्रासनं तु तत् ॥१२७
॥६७१॥