________________
चता
योगशास्त्रम्
प्रकाशः
॥६७०॥
स्पष्टः ॥ १२२ ॥ ध्यानसाधनाय स्थानं निदर्शयतितीर्थंवा स्वस्थताहेतु यत्तद्वा ध्यानसिद्धये। कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥१२३॥
तीर्थ तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणभूमि, तदभावे स्वास्थ्यहेतु यत्तद्वा गिरिगुहादि विविक्त स्त्रीपशुपण्डकादिरहितं स्थानमाश्रयेत् । यदाहनिच्चं चित्र जुवइपसूनपुंसगकुसीलवज्जिअं जइणो । ठाणं विअणं भणि विसेसओ झाणकालम्मि॥१॥ थिरकयजोगाणं पुण मुणीणं झाणे सुनिच्चलमण्णाणं । गामम्मि जणाइण्णे सुन्नेऽरण्णे व न विसेसो ॥२॥ तो जत्थ समाहाणं होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ सो देसो झाण (य)माणस्स ॥३॥ स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह-- कालो वि सो च्चिय जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाए निअमणं झाइणो भणि॥१॥
ध्यानसिद्धये योगी स्थानमाश्रयेदिति संबन्धः । किविशिष्टः ? कृतासनजयः कृत आसनानां कायसन्निवेशविशेषाणां वक्ष्यमाणस्वरूपाणां जयोऽभ्यासो येन स तथा ॥१२३।।
(१) नित्यं चैव युवतिपशुनपुंसककुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले ॥१॥ स्थिरकृतयोगानां पुनर्मुनीनां ध्याने मुनिश्चलमनसाम् । ग्रामे जनाकीणे शून्येऽरण्ये वा न विशेषः ॥२॥ ततो यत्र समाधान भवति मनोवचनकाययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः ॥३॥ (२) कालोऽपि स चैव यत्र योगसमाधानमुत्तमं लभते । न तु दिवसनिशावेलायां नियमनं ध्यानिनो भणितम् ॥१॥
॥६७०॥