________________
योगशास्त्रम्
||६६९॥
ROOKEROSE
करुणा, वाङ्मात्रत्वात्, न शक्यं भवितुं संसारिषु मुक्तेषु मया मोक्तव्यमिति, संसारोच्छेदप्रसङ्गेन सर्वसं सारिणां मुक्यभावात् तस्माद्वाङ्गमात्रमेतत् मुग्धजनप्रतारकं सौगतानां कारुण्यं । १ एतच्च कुर्वन् हितोपदेशदेशकालापेक्षान्नपानाश्रयवस्त्र ( पात्र) भेषजैरपि ताननुगृह्णातीति ॥१२०॥ क्रूरकर्मसु निःशङ्कं देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यमुस्थ्यमुदीरितम् ॥१२१
अथ माध्यस्थ्यस्वरूपमाह-
क्रूराणि अभक्ष्यभक्षणापेयपानागम्यगमनऋपिबालस्त्री भ्रूणघातादीनि कर्माणि येषां तेषु तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह- देवतागुरुनिन्दिषु देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका उपदेष्टारथ तान् रक्तद्विष्टमूढपूर्वव्युद्ग्राहिततया निन्दन्तीत्येवं शीलाः तेषु तथाविधा अपि कथंचन वैराग्यदशापन्ना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-- आत्मशंसिषु आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहुमानिन इत्यर्थः तेषु मुद्रशैलेष्विव पुष्कारावर्त्तवारिभिर्मृदुकर्तुमशक्येषु देशनाभिः, योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥
अथ यदुक्तं धर्मध्यानमुपस्कर्तुमिति तद्विवेचयति
आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः । त्रुटितामपि संघत्ते विशुद्ध ध्यानसंततिम् ॥ १२२॥
१ कारुण्यम् ।
चतुथ
प्रकाशः
॥६६९॥