________________
योगशास्त्रम्
चतुर्थ
Test
प्रकाशा
॥६६८॥
प्रकीर्तितः ॥११९॥
अथ कारुण्यस्वरूपमाहदीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम्। प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥१२०॥
दीनेषु मतिश्रुताज्ञानविभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्तेषु नवनवविषयार्जनपूर्वार्जितपरिभोगजनिततृष्णाग्निना दंदह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीतबृत्तिषु अर्थाजनरक्षणव्ययनाशपीडावत्सु च । तथा भीतेषु विविधदुःखपीडिततया अनाथकृपणबालवृद्धप्रेष्यादिषु सर्वतो बिभ्यत्सु । तथा वैरिभिराक्रान्तेषु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु प्रार्थयमानेषु जीवितं प्राणत्राणं । एतेषु दीनादिषु "अहो कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन् भगवानपि हि भुवनगुरुः स (उ)न्मार्गदेशनात्सागरोपमकोटिकोटिं यावद्भवे भ्रान्तः तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिः?, तथा धिगमी विषयार्जनभोगतरलहृदया अनन्तभवानुभूतेष्वपि विषयेष्वसंतृप्तमनसः कथं नाम प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्या ? इति, तथा बालवृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते ? इति, तथा मृत्युमुखमधिशयिताः स्वधनदारपुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडामनुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते ?" इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्प्रतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात् , सा कारुण्यमभिधीयते । या तु अशक्यप्रतीकारेषु सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामीति सौगतानां करुणा, न सा
६६८॥