________________
योगशास्त्रम्
चतुर्थ
॥६६७॥
प्रकाशा
तत्र मैत्रीस्वरूपमाह|| मा कार्षीत् कोऽपिपापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते
कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि दुःखनिबन्धनानि मा कार्षीत् , पापकरणनिषेधात् मा च भूत् कोऽपि दुःखितः। जगदिति तांस्तान् देवमानुषतिर्यग्नारकपर्यायानत्यर्थ गच्छतीति जगत् प्राणिजातं । अपिशब्दान्नैकः कश्चित् , किं तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिमत्रीशब्देनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात् , तस्मादशेषसत्त्वविषया मैत्री । एवं कृतापकारणमपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहमिति मैत्रीभावना ॥११८॥ ___अथ प्रमोदस्वरूपमाह-- अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥११९॥
अपास्ता अशेषा दोषाः प्राणिवधादयो यस्तेषां । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषां । अनेन ज्ञानक्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकार:-" नाणकिरियाहि मोक्खो" इति (ज्ञानक्रियाभ्यां मोक्षः) एवं विधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शमदमौचित्यगाम्भीर्यधैर्यादिषु यः पक्षपातो विनयप्रयोगवन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोदः
॥६६७॥