________________
योगशास्त्रम्
॥६६६॥
ननु छद्मस्थयोगिनां यदि मुहूर्त्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह - पुहूर्त्तात्परतश्चिन्ता यद्वा ध्यानान्तरं भवेत् । बह्वर्थसंक्रमे तु स्वाद्दीर्घाऽपि ध्यानसंततिः॥११६
मुहूर्त्तात्परतो मुहूर्त्तत्तरकालं चिन्ता भवेत् यद्वा ध्यानान्तरं आलम्बनभेदेन भिन्न भवेत् न पुनरेकमेव ध्यान मुहूर्त्तात् परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थ च दीर्घाऽपि दीर्घकालाऽपि ध्यानसंततिर्भवेत्, मुहर्त्तान्तरं च प्रथमे ध्याने समाप्तप्राये आलम्बनान्तरे तद्विवृद्धयर्थं ध्याने भावनां कुर्वीत् ॥ ११६॥
तदेवाह-
ञिमिदा
मैत्रीप्रमोद कारुण्यमाध्यस्थ्यानि नियोजयेत् । धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम्॥११७॥ स्नेहने, मे (मि) द्यति स्निह्यतीति मित्रं, तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । प्रमोदनं प्रमोदो वदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्वनुकम्पा । रागद्वेषयोरन्तरालं मध्यं तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्मनि नियोजयेत् । किमर्थ ? धर्म्यध्यानमुपस्कर्तुं त्रुटयतो ध्यानस्य पुनर्ध्यानान्तरेण सन्धानं कर्तुं । कुत इत्याह तद्धि तस्य रसायनं तत् मैत्र्यादियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुटयतो रसायनमिव रसायनम् ॥११७॥
चतुर्थ प्रकाशः
६६६॥