________________
योग
शास्त्रम्
॥६६५॥
उच्यते — द्वयोरपि प्राधान्यं नान्तरीयकत्वात् । एतदेवाह -
सोम्येन विना ध्यानं न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद्वयमन्योऽन्यकारणम्
साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तर्दीतरेतराश्रयं ? नैवं साम्यमन्तरेण ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोषाभावः । एवं च सति द्वयमन्योऽन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥
साम्यं पूर्वमेव व्याख्यातम् इदानीं ध्यानस्य स्वरूपं व्याख्यायते-
मुहन्तःस्थैर्ये ध्यानं छमस्थयोगिनाम् । धर्म्यं शुक्लं च तद्वेधा योगरोधस्त्वयोगिनाम्॥ ११५
इह द्वये ध्यातारः -- सयोगा अयोगिनश्च । सयोगा अपि द्विविधा: -- छद्मस्थाः केवलिनश्च । तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतत्, यदुतान्तमुहूर्त्त । कालमेकस्मिनालम्बने चेतसः स्थितिः, यदाह-- उत्तम संहननस्यैका ग्रचित्तनिरोधो ध्यानमान्तर्मुहूर्त्तात् । तच्च छद्मस्थायोगिनां द्वेधा-धर्म्यं शुक्लं च । तत्र धर्मादशविधादनपेतं धर्मेण प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षय हेतुत्वात् । यद्वा शुगू दुःख तत्कारणं वाऽष्टविधं कर्म शुक्लमयतीति शुक्लं । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः योगानां मनोवाक्कायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग् नोक्तं, ते हि देशोनपूर्वकोटिं यावन्म नोवाक्कायव्यापारयुक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५ ॥
चतुर्थ प्रकाशः
॥६६५||