________________
योगशास्त्रम्
।।६६४॥
तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनःशुद्धया, मनःशुद्धि रागद्वेषजयेन, रागद्वेषजयं समत्वेन, समत्वं च भावनाहेतुक निर्ममत्वेन प्रतिपाद्योत्तरं प्रकरणं प्रक्रमते --
समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्यते ॥ ११२ ॥
अथानन्तरं योगी मुनिः समत्वमवलम्ब्य दृढं चेतसि व्यवस्थाप्य ध्यानं वक्ष्यमाणलक्षणं समाश्रयेत् । यद्यपि ध्यानमपि समत्वमेव, तथापि विशिष्टतरं साम्यं ध्यानमुच्यते ध्यानरूपतायोग्यं त्वाभ्यासिकं साम्यमिति न पौनरुक्त्यम् । व्यतिरेकमाह-- अनुप्रेक्षादिबललब्धं समत्वं विनाऽरब्धे ध्याने स्वकीय एवात्मा विडम्ब्यते । तथाहि - इन्द्रियाणि न गुप्तानि मनःशुद्धिर्न वा कृता । रागद्वेपौ जितौ नैव निर्ममत्वं न निर्मितम् ॥ १॥ नाभ्यस्ता समता किन्तु गतानुगतिकत्वतः । मूढैरारभ्यते ध्यानं लोकद्वयपथच्युतैः ॥२॥
I
यथाविधि ध्यानं तु विधीयमानं न बिडम्बना, प्रत्युतात्महिताय ॥ ११२ ॥ एतदेवाह -
मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च तद्वयानं हितमात्मनः ॥ ११३ ॥
मोक्षः स्वरूपलाभलक्षणः कर्मणां स्वरूपावरणीयानां क्षयादेव, नान्यथा इत्येतदविवादसिद्धं । स च कर्मक्षय आत्मज्ञानादेव भवतीत्यत्राप्यविवादः । तच्चात्मज्ञानं ध्यानसाध्यं ध्यानेनैव साध्यते, ध्यानस्य साध्यमेवेत्यन्ययोगव्यवच्छेदस्वयोगव्यवस्थाभ्यां ध्यानसाध्यता । तत्तस्माद्धेतोर्ध्यानमात्मनो हितमिति प्रकृतम् ॥ ११३ ॥ ननु पूर्वमर्थप्राप्तयेऽनर्थपरिहाराय च साम्यमुक्तं इदानीं तु ध्यानस्यात्महितत्वमुच्यते, तत्कस्य प्राधान्यं ?
चतुर्थ प्रकाशः
||६६४॥