________________
योगशास्त्रम्
चतुर्थ
॥६६३॥
प्रकाश
कुशास्त्रश्रवणं सङ्गो मिथ्यादृग्भिः कुवासना । प्रमादशीलता चेति स्युर्बोधेः परिपन्थिनः ॥६॥ चारित्रस्यापि संप्राप्तिदुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निःफलाऽन्यथा ॥७॥ अभव्या अपि चारित्रं प्राप्य ग्रेवेयकादिषु । उत्पद्यन्ते विना बोधि त्वाप्नुवन्ति न निवृतिम् ॥८|| असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् संप्राप्तबोधिरत्नस्तु रङ्कोऽपि यस्यात्ततोऽधिकः ॥९॥ संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वाद्भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥१०॥ ये प्राप्ताः परमं पदं तदपरे प्राप्स्यनि ये केऽपि वा, केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधि समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां श्रूयताम् ॥११॥ इति बोधिभावना ॥१२॥१०९॥
भावनां निर्ममत्वहेतुकामुपसंहरन् प्रकृते समत्वे योजयतिभावनाभिरविश्रांतमिति भावितमानसः। निर्ममः सर्वभावेषु समत्वमवलम्बते ॥११०॥
स्पष्टः ॥११०॥ साम्यस्यैव फलमाह| विषयेभ्यो विरक्तानां सोम्यवासितचेतसाम्। उपशाम्येत् कषायाग्निर्वाधिदीपः समुन्मिषेत् ॥१११॥ __साम्यवासितचेतसां योगिनामत एव विषयेभ्यो विरक्तानामुपशाम्येत् कषायाग्निरित्यनर्थनिषेधः बोधिदीपः समुन्मिषेदित्यर्थप्राप्तिः ॥११॥
॥६६३॥