________________
योगशास्त्रम्
चतुर्थ
प्रकाश
॥६६२॥
देशपरिहारेणार्यदेशो मगधादिः । ततोऽप्यायदेशप्राप्तावपि जातिः, अन्त्यजादिपरिहारेणोत्तमजातिः. जात्या कुलमुपलक्ष्यते । जातिकुलप्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथश्चित्कर्मलाघवात् अशुभस्य कर्मणो लाघवात् अपचयात् , उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किश्चनैहिकमामुष्मिकं वा कार्य कर्तुं शक्तः, भगवन्तोऽपि वीतरागा "हे आयुष्मन् ! गौतम !" इत्यादि वदन्तो दीर्घायुष्कं (ष्ट्र) सर्वगुणेभ्योऽधिकमाचचक्षिरे ॥१०८॥ तथाप्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तबोधिरत्नं सुदुर्लभम् ॥१०९॥
पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु ? इत्याह-श्रद्धा धर्माभिलाषः कथको धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनं, एतेषु सत्स्वपि । तदिति प्रसिद्धं, बोधिरत्नं सुदुल , बोधिस्तु तत्वनिश्चयः तत्त्वस्य देवगुरुधर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपं । स्थावरत्वात्त्रसत्वादीन्यपि दुर्लभानि, तेभ्योऽपि बोधिरत्नं दुर्लभमिति सुशब्देनाह । यतो मिथ्यादृशोऽपि त्रसत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुवीजमिति । अत्रान्तरश्लोकाः
राज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥११॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः। बोधिन जातुचित्प्राप्ता भवभ्रमणदर्शनात् ॥२॥ पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह। उपार्धपुदगलावर्ते शेषे सर्वशरीरिणाम् ॥३॥ सर्वेषां कर्मणां शेषे कोटिकोटयन्तरस्थितौ । ग्रन्थिभेदाव कश्चिदेव लभते बोधिमुत्तमाम् ॥४॥ यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥५॥
॥६६२।