________________
योग
शास्त्रम्
॥६६१ ॥
ननु लोकभावनाया भावनात्वं कथं भवेत् ? । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥१॥ सुखहेतों क्वचिद्भावे मनो रज्यन्मुहुर्मुहुः । लोकभावनयाऽत्यर्थे विप्रकीर्ण विधीयते || २ || भूद्वीपसागरादीनि धर्मध्यानस्य गोचरः । इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् ||३|| जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते । अतीन्द्रिये मोक्षमार्गेऽथाधत्ते प्रत्ययं जनः || ४ ||
इति लोकभावना ॥ ११॥१०६॥
अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाह -
अकामनिजरूपात् पुण्याज्जन्तोः जायते । स्थावरत्वात्त्रसत्वं वा तिर्यक्त्वं वा कथञ्चन ॥१०७॥
अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेशविचटनरूपा सैव रूपं यस्य तस्मात् पुण्यादिति पुण्यं न पुण्यपकृतिरूपं, किन्तु कर्मलाघवरूपं तस्मात् जन्तोः शरीरिणः प्रजायते भवति । किं तदित्याह - स्थावरत्वादेकेन्द्रियजातिसहचारिस्थावरनामकर्मोदयकृतात् पर्यायविशेषात्, त्रसत्वं वा त्रसनामकर्मोदयजं द्वीन्द्रियत्वादिसहचारि,, तिर्यक्त्वं वा पञ्चेन्द्रियतिर्यग्रूपता, कथञ्चन विशि ष्टात्कर्मलाघवात् ॥१०७॥ तथामानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥ १०८ ॥ मानुषस्य भावो मानुष्यं कुतोऽपि कर्मलाघवात् युगच्छिद्रे शमिलाप्रवेशन्यायेन । ततोऽपि शकयवनाद्यनार्य
चतुर्थ प्रकाशः
॥६६१॥