________________
योग शास्त्रम् ॥६६०॥
द्वयोर्द्वयोः, चतुर्षु मनःप्रवीचाराः परेष्वप्रवीचाराः प्रवीचारवद्भयो देवेभ्योऽनन्तगुणसुखा इति । अयमधस्तिर्य गुर्ध्वभेदो लोकः । अस्य च मध्ये रज्जुप्रणायामविष्कम्भा ऊर्ध्वाधश्चतुर्दशरज्ज्वात्मिका सनाडी त्रसाः स्थवराव जीवा अत्र भवन्तीति कृत्वा । सनाड्या बहिः स्थावरा एव जीवा भवन्तीति ॥ १०५॥ लोकस्यैव विशेषस्वरूपमाह
निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्धो निराधारो गगने कित्ववस्थितः॥१०६॥ निष्पादितः कृतो न केनापि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तृत्वानुपपत्तेः । ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् न, क्रीडायाः कुमारकाणामिव रागिणा मेव संभवात्, क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात् क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वप्रसङ्गः । कृपया प्रवृत्तिरिति चेत् तर्हि मुख्येव सर्गः स्यात् न दुःखी । कर्मापेक्षः सुखदुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारणमस्तु । कर्मापेक्षत्वे चैषां स्वातन्त्र्यविघातः । कर्मजन्ये च भावनां वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तं, न प्रयोजनमन्तरेण बालोऽपि किञ्चित्करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । न च केनचिदयं धियते, शेषकूर्मवराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यं, आकाशमिति चेत् तस्यापि किं धारकं ? स्वप्रतिष्टमेवेदमिति चेत्, लोकोऽपि तथाऽस्तु । एवं च सति केनचिदनुत्पादितत्वात्स्वयंसिद्धः केनचिदधृतत्वान्निराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह गगने किं त्ववस्थितः आकाशरूप एवायमाकाश च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः
चतुर्थ
प्रकाशः
॥६६०।।