________________
योग
शास्त्रम्
चतुर्थ
प्रकाशः
॥६५९॥
अनुत्तरविमानानि पञ्चैव इति । एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहखाणि त्रयोविंशानिति विजया- | दिषु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः । सर्वार्थसिद्ध त्वेकचरमाः ॥ ___ एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्त्या लेश्यया विशुध्या इन्द्रियविषयेण अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छ्वासः सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते आहारश्चतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्वासः, दिवसपृथक्त्वतश्चाहारः। यस्य यावन्ति सागरोपमाणि (आयुषः) तस्य तावत्स्वर्धमासेषूच्छ्वासः, तावत्स्वेव वर्षसहस्रेष्वाहारः । देवाश्च सद्वेदनाः प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहर्तमेव, न परतः॥
उत्पत्तिर्देवीनामा ईशानात, गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः। आ ब्रह्मलोकाच्चरकपरिव्राजकानां । पञ्चेन्द्रियतिरश्चामा सहस्रारात् । मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसमाचारीपरिपालकानामा नवमवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे ।।
भवनवास्यादयो देवा आ ईशानात् कायप्रवीचाराः । ते हि संक्लिष्कर्माणो मनुष्यवन्मैथुनमुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशज सर्वाङ्गीणं स्पर्शमुखमवाप्य प्रीतिमुपलभन्ते इति । शेषाः स्पर्शरूपशब्दप्रवीचारा (१) चरमभविनः ॥
॥६५९॥