________________
योगशास्त्रम्
।।६५८।।
तत्र दक्षिणार्थे सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वलोकमध्यभागे लोक पुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः तदेकदेशवासिनः सारस्वतादित्यवदन्यरुणगर्दतोयतुषिताव्याबाधमरुतारिष्टाख्या लोकान्तिका देवाः । ततोऽप्युपरि लान्तकः, तन्नामेन्द्रः । ततोऽप्युपरि महाशुक्रः, तन्नामेन्द्रः । ततोऽप्युपरि सहस्त्रारः तन्नामेन्द्रः । ततोऽप्युपरि सौधर्मेशानवच्चन्द्राकारावानतप्राणतौ कल्यो, तत्र प्राणतवासी तन्नामा तयोरेक इन्द्रः । ततोऽप्युपरि प्राग्वच्चन्द्राकारावारणाच्युतौ तत्राच्युत निवासी तनामा तयोरेक इन्द्रः । ततः परमहमिन्द्रा देवाः ||
तत्र प्रथम कल्प घनोदधिप्रतिष्ठानौं । तदुपरि त्रयो वायुप्रतिष्ठानाः । ततः परं त्रयो घनोदधिघनवातप्रतिष्ठानाः । तदुपर्याकाशप्रतिष्ठानाः । तेष्विन्द्रसामानिकत्रायस्त्रिशत्परिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिविषिका देवाः । तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः । इंद्रसमानाः सामानिका अमात्यपितृगुरूपाध्यायमहत्तरवत्केवलमिन्द्रत्वहीनाः १ त्रायस्त्रिशा मन्त्रिपुरोहितस्थानीयाः २ । पारिषद्या वयस्यस्थानीयाः ३ । आत्मरक्षा अङ्गरक्षस्थानीयाः ४ । लोकपाला आरक्षकार्थचरस्थानीयाः ५ । अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायक स्थानीया अप्यनीकानि ६ । प्रकीर्णकाः पौरजनपदस्थानीयाः ७ । आभियोग्या दासस्थानीयाः ८ । किल्विषिका अन्तस्य ( अन्त्यज) स्थानीयाः ९ । त्रायस्त्रिशल्लोकपालवर्जा व्यन्तरा ज्योतिष्काः ॥
सौधर्मे विमानानां द्वात्रिंशल्लक्षाः । ऐशानेऽष्टाविंशतिः । सनत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारः । लान्तके पञ्चाशत्सहखाणि । शुक्रे चत्वारिंशत्सहस्राणि । सहस्रारे पट् सहखाणि । आनतप्राणतयोश्चत्वारि शतानि । भरणाच्युतयोस्त्रीणि । प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतं । मध्यमे त्रिके सप्तोत्तरं । उपरि त्रिके एकमेव शतं ।
Saras
चतुर्थ
प्रकाशः
॥६५८॥