SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ चतुर्थ योगशास्त्रम् प्रकाशा ॥६५७॥ रुचको द्वीपः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणमाना द्वीपसमुद्राः । अन्त्यः स्वयम्भूरमणः समुद्रः॥ एषां च मध्येऽर्धतृतीयद्वीपेषु भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः । कालोदपुष्करस्वयंभूरमणा उदकरसाः लवणोदो लवणरसः । वारूणोदश्चित्रपानवान् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्वथितसद्योविस्यन्दितगोघृतरसः । शेषाश्चतुर्जातकयुक्तत्रिभागच्छिन्नेक्षुरसबज्जलाः। लवणकालोदस्वयंभूरमणा बहुमत्स्यकच्छपाः, नेतरे ॥ तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकृतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुर्खि शजिनाः त्रिंशच क्षितीशाः (चक्रिणः) । धातकीखण्डे पुष्करार्धे च द्विगुणाः । तिर्यग्रलोकार्ध्व नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहखारानतप्राणतारणाच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजयवैजयन्तजयन्तापराजितानि विमानानि प्राक्क्रमात् , मध्ये सर्वार्थसिद्धम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्योजन लक्षायामविष्कम्भा ईषत्प्रग्भारा नाम पृथ्वी, सा सिद्धिशिला । ततोऽप्युपरि गव्यूतत्रयावं चतुर्थगव्युतषष्ठभागे आ लोकान्तात् सिद्धाः ॥ तत्र धरणितलात समभागात् सौधर्मशानौ यावत्सार्धरज्जुः । सनत्कुमारमाहेन्द्रौ यावत् सार्धं रज्जुद्वयं । सहस्रारं यावत् पञ्च रज्जवः । अच्युतं यावत् षट् रज्जवः । लोकान्तं यावत्सप्त रज्जवः ॥ सौधर्मेशानौ वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः। सनत्कुमारमाहेन्द्रावप्येवं, ॥६५७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy