________________
योगशास्त्रम्।
पञ्चमः प्रकाशः।
॥६८६॥
नाभेनिष्कामतश्चारं हृन्मध्ये नयतो गतिम् । तिष्ठतो द्वादशोन्ते तु विद्यात्स्थान नभस्वतः॥३९ ।।
स्पष्टः । नवरं गतिं नयत इति गच्छतः । द्वादशान्तं तु ब्रह्मरन्ध्रम् ॥३७॥
अथ चारादीनां ज्ञानस्य फलमाहतच्चारगमनस्थानज्ञानादभ्यासयोगतः । जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥३०॥
कालं मृत्यु, आयुर्जीवितं, शुभाशुभफलस्य चोदयं जानीयात् , एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥
उत्तरकरणीयमाहततः शनैः समाकृष्य पवनेन समं मनः । योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥३९॥
ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तमध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ॥ ३९ ॥
हृदयस्थे पवने मनसि च यत्फलं तदाह| ततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पो विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते ॥४०॥
अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ॥४०॥
हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमतेक्व मण्डले गतिर्वायोः संक्रमः क्व व विश्रमः । का च नाडीति जानीयोत्तत्र चित्ते स्थिरीकृते॥४१
॥६८६॥