________________
योग
शास्त्रम्
॥६४४॥
तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः सामानिकपारिषद्यात्मरक्षानीकपरिवृताः ।
तत्र भरते गङ्गासिन्धु महानद्यौ, हैमवते रोहितांशारोहिते, हरिवर्षे हरिकान्ताहरिते, महाविदेहे शीताशीतोदे, रम्यके नारीनरकान्ते, हैरण्यवते सुवर्णकूलारूप्यकूले. ऐखते रक्तारतोदे । प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः तत्र चतुर्दश नदीसहखपरिवृते प्रत्येकं गङ्गासिन्धू । यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीताशीतोदाभ्यामर्वाक् तु प्रत्येक द्वात्रिंशत्सहखाधिकपञ्चलक्षनदीपरिवृते । उत्तारास्तु दक्षिणाभिस्तुल्याः ।
भक्षेत्र fassम्भतः पञ्च योजनशतानि षडविंशानि एकोनविंशतिभागीकृतस्य योजनस्य षड् भागाः, द्विगुणविष्कम्भा यथोत्तरं वर्षधरवर्षा विदेहान्ताः । उत्तरा दक्षिणतुल्याः ।
विदेहेषु निषधस्योत्तरतो मेरोर्दक्षिणतो विद्युत्प्रभसौमनसाभ्यां पश्चिमपूर्वाभ्यां निषधमेवान्तर्वर्तिभ्यां गजदन्ता कृतिभ्यां पर्वताभ्यामावृताः शीतोदानदीभिन्नहदपञ्चकोभयपार्श्वव्यवस्थितैर्दशभिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनउत्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदर्थौपरिविस्तृताभ्यां च विचित्रकूटचित्रकूटा भ्यां शोभिताच देवकुरवः विष्कम्भेणैकादशयोजनसहखाणि अष्टौ शतानि द्विचत्वारिंशदधिकानि । मेरोरुत्तरतो नीलादक्षिणतो गन्धमादनमाल्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरुनीलान्तरस्थाभ्यामावृताः शीतानदी विभिन्नहृदपञ्चकोभयपार्श्वस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूटचित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः ।
देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः । पूर्वविदेहेषु चक्रवति विजेतव्या नदीपर्वतविभक्ताः
चतुर्थ प्रकाशः
in