________________
चतुर्थ
योगशास्त्रम्
प्रकाशा
॥६४५॥
परस्परमगम्याः पोडश विजयाः, एवमपरविदेहेष्वपि ॥
भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिखाखण्डप्रपातागुहाद्वयो पशोभितः पड़ योजनानि सक्रोशानि धरणितलमवगाढः पञ्चाशद्योजनविस्तृतः पञ्चविंशतियोजनोच्छूितो वैतादचपर्वतः । अत्र च दक्षिणोत्तरपार्थाभ्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ । तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि, उत्तरस्यां तु षष्टिः । विद्याधरश्रेणिभ्यामूर्ध्वमुभयतो दशयोजनान्ते १व्यन्तरश्रेण्यौ, तयोय॑न्तरावासाः । व्यन्तरश्रेण्योरुपरि पञ्चसु योजनेषु नव कूटानि । वैताढयवक्तव्यता ऐरावतक्षेत्रेऽपि समाना वक्तव्या ॥
जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मूले विष्कम्भः, मध्येऽष्टौ योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छ्रायो जालकटको विद्याधरक्रीडास्थानम् । तस्याप्युपरि पद्मवरवेदिका देवभोगभूमिः । अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजयवैजयन्तजयन्तापराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतोरन्तरे शब्दापाती नाम वृत्तवैताढयपर्वतः । रुक्मिशिखरिणोर्मध्ये विकटापाती । महाहिमवनिषधयोरन्तरे गन्धापाती । नीलरुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहखोच्छ्रायाः पल्याकृतयः॥
तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो (मध्ये दशयोजनसटव) योजनसहखावगाढो मात्रया पञ्चनवति १ तिर्यग्जंभकानां.
॥६४५॥