________________
चतुर्थ
योगपास्त्रम्
प्रकाशा
॥६४३॥
योजनसहसं विस्तृतः, त्रिकाण्डः, त्रिलोकप्रविभक्त मूर्तिः, चतुभिर्वनैर्भद्रशालनन्दनसौमनसपाण्डकैः परिवृतः । तत्र शुद्धपृथिव्युपलबजशर्कराबहुलं योजनसहस्रमेकं प्रथम काण्डं, द्वितीयं त्रिषष्टियोंजनसहखाणि रजतजातरूपा
स्फटिकबहुलं, तृतीयं पत्रिंशद्योजनसहखाणि जाम्बूनदबहुलं वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद्योजनानि उच्छ्रायेण, मूले द्वादश विष्कम्भेण, मध्येऽष्टौ, उपरि चत्वारीति । मेरोमूलभूमौ वलयाकृति भद्रशालवनं । भद्रशालवनात् पञ्चभ्यो योजनशतेभ्य ऊर्ध्व पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनं, ततः सार्धद्विषष्टियोजनसहखेभ्य ऊर्ध्व द्वितीयमेखलायां पश्चयोजनशतविस्तारं वलयाकृति सौमनसं वनं ततोऽपि पत्रिंशयोजनसहस्त्रेभ्य ऊर्ध्वं तृतीयमेखलायां चतुर्नवत्यधिकचतुर्योंजनशतविस्तारं वलयाकृति मेरोः शिरसि पाण्डकवनम् ॥
तत्र जम्बूद्वीपे सप्त वर्षाणि । तत्र दक्षिणतो भरतक्षेत्रं, तदुत्तरतो हैमवतं, ततोऽपि हरिवर्ष, ततोऽपि विदेहाः, ततोऽपि रम्यकक्षेत्रं, ततोऽपि हैरण्यवतं, ततोऽप्यैरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः, ते च यथाक्रमं हेमाणु उतपनीय रिजततपनीयमया मणिविचित्रपार्धा मृलोपरि तुल्यविस्ताराः । तत्र पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्यो हिमवान् , तद्विगुणो महाहिमवान् तदद्विगुणो निषधः, तत्समो नीलः, महाहिमवत्समो रुक्मी, हिमवत्समः शिखरी। तदुपरि पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीका हृदाः । योजनसहखायामस्तदर्धविस्तीर्णः प्रथमः, तद्विगुणद्विगुणायामविस्तारौ परौ उत्तरे पुण्डरीकादयो दक्षिणतुल्याः। सर्वेष्वपि च पद्मानि दशयोजनावगाहानि तन्निवासिन्यः क्रमेण श्रीहीधृतिकी (१) अधोलोके १०० । तिर्यग्लोके १८०० । ऊर्ध्वलोके ९८१०० ॥
तत्र जम्बूद्वीपे सप्त व
ततोऽपि हैरण्यवत, तता मानु तपनीय
६४३