________________
योगशाखम्
प्रकाशः
६४२॥
जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूयौं । लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादश चन्द्राः सूर्याश्च । कालोदे द्विचत्वारिंशच्चन्द्रा सूर्याश्च । पुष्करवरार्धे द्वासप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिहाः अष्टविंशतिनक्षत्राणि, षट्षष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारकाकोटिकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकपष्टिभागीकृतस्य योजनस्य पट्पञ्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानं, अष्टचत्वारिंशत् (भागाः) सूर्यविमानं, ग्रहाणामधयोजनं, नक्षत्राणां गव्यूतं, आयुषा सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनु शतानि, बाहल्यं तु सर्वेषामायामार्थेन । एते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः अपरतो वृषभाः, उत्तरतोऽश्वाः। ते चाभियोगिका देवाश्चन्द्रसूर्ययोः पोडश सहखाणि, ग्रहाणामष्टौ, नक्षत्राणां चत्वारि, तारकाणां द्वे, स्वरसप्रवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ति । मानुषोत्तरात् परतः पञ्चाशता योजनसहखैः परस्परमन्तरिताः सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणादधप्रमाणा यथोत्तरं क्षेत्रपरिधिवृद्धया संख्यया वर्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घण्टाकारा असंख्येया आ स्वयंभूरमणल्लक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति । मध्यलोके तु जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा असङ्ख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः । अन्त्यः स्वयंभूरमणः समुद्रः ॥
जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगाढो, नवनवतियोजनसहसोच्छितो दश योजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतो, धरणितले दश योजनसहखाणि विस्तृतः, उपरि
॥६४२॥